|
|
|
Sri Dattatreya Mala Mantram – श्री दत्तात्रेय माला मन्त्रः
अस्य श्रीदत्तात्रेय मालामहामन्त्रस्य सदाशिव ऋषिः, अनुष्टुप्छन्दः, श्रीदत्तात्रेयो देवता, ओमिति बीजं, स्वाहेति शक्तिः, द्रामिति कीलकं, श्रीदत्तात्रेय प्रसादसिद्ध्यर्थे जपे विनियोगः
ध्यानम् ।
काशी कोल्हामाहुरी सह्यकेषु
स्नात्वा जप्त्वा प्राश्यते चान्वहं यः ।
दत्तात्रेयस्मरणात् स्मर्तृगामी
त्यागी भोगी दिव्ययोगी दयालुः ॥
अथ मन्त्रः ।
ओं आं ह्रीं क्रों ऐं क्लीं सौः श्रीं ग्लौं द्रां ओं नमो भगवते दत्तात्रेयाय, स्मरणमात्रसन्तुष्टाय, महाभयनिवारणाय महाज्ञानप्रदाय, सच्चिदानन्दात्मने बालोन्मत्तपिशाचवेषाय, महायोगिनेऽवधूताय, अनसूयानन्दवर्धनाय, अत्रिपुत्राय, सर्वकामफलप्रदाय, ओं भवबन्धविमोचनाय, आं साध्यबन्धनाय, ह्रीं सर्वविभूतिदाय, क्रों साध्याकर्षणाय, ऐं वाक्प्रदाय, क्लीं जगत्त्रयवशीकरणाय, सौः सर्वमनःक्षोभणाय, श्रीं महासम्पत्प्रदाय, ग्लौं भूमण्डलाधिपत्यप्रदाय, द्रां चिरञ्जीविने, वषट् वशीकुरु वशीकुरु, वौषट् आकर्षय आकर्षय, हुं विद्वेषय विद्वेषय, फट् उच्चाटय उच्चाटय, ठ ठ स्तम्भय स्तम्भय, खे खे मारय मारय, नमः सम्पन्नाय सम्पन्नाय, स्वाहा पोषय पोषय, परमन्त्र परयन्त्र परतन्त्राणि छिन्धि छिन्धि, ग्रहान् निवारय निवारय, व्याधीन् विनाशय विनाशय, दुःखं हरय हरय, दारिद्र्यं विद्रावय विद्रावय, मम चित्तं सन्तोषय सन्तोषय, सर्वमन्त्रस्वरूपाय, सर्वयन्त्रस्वरूपिणे, सर्वतन्त्रस्वरूपाय, सर्वपल्लवरूपिणे, ओं नमो महासिद्धाय स्वाहा ।
इति श्री दत्तात्रेय माला मन्त्रः ।

|


|